(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

सभापर्व ~ महाभारत | Mahabharat Sabha Parv In Hindi


॥ श्रीः ॥
2.68. अध्यायः 068
Mahabharata - Sabha Parva - Chapter Topics
भीष्मवाक्यात्कुपितेन शशुपालेन राज्ञः सज्ञाह्य युयुत्सया कृष्णस्याह्वानम् ॥ 1॥ कृष्णेन स्वस्मिन् शिशुपालकृतापराधान्विश्राव्य विभीषितानां राज्ञां पलायनम ्॥ 2॥ अपगतेषु राजसु शिशुपालस्य एकाकिनः कृष्णं प्रति युद्धाय गमनम्॥ 3॥
Mahabharata - Sabha Parva - Chapter Text

वैशम्पायन उवाच॥

वचः श्रुत्वैव भीष्मस्य चेदिराडुरुविक्रमः।
युयुत्सुर्वासुदेवेन वासुदेवमुवाच ह॥ 2-68-1(13948)
आह्वये त्वां रणं गच्छ मया सार्धं जनार्दन।
यावदद्य निहन्मि त्वां सहितं सर्वपाण्डवैः॥ 2-68-2(13949)
सह त्वया हि मे वध्याः सर्वथा कृष्ण पाण्डवाः।
नृपतीन्समतिक्रम्य यैरराजा त्वमर्चितः॥ 2-68-3(13950)
ये त्वां दासमराजानं बाल्यादर्चन्ति दुर्मतिम्।
अनर्हमर्हवत्कृष्ण वध्यास्त इति मे मतिः॥ 2-68-4(13951)
इत्युक्त्वा राजशार्दूल `शार्दूल इव नादयन्।
पश्यतां सर्वभूतानां शिशुपालः प्रतापवान्॥ 2-68-5(13952)
स रणायैव सङ्क्रुद्धः सन्नद्धः सर्वराजभिः।
सुनीथः प्रययौ क्षिप्रं पार्थयज्ञजिघांसया॥ 2-68-6(13953)
ततश्चक्रगदापाणिः केशवः केशिहा हरिः।
सध्वजं रथमास्थाय दारुकेण सुसत्कृतम्।
भीष्मेण दत्तहस्तोऽसावारुहोह रथोत्तमम्॥ 2-68-7(13954)
तेन पापस्वभावेन कोपितान्सर्वपार्थिवान्।
आससाद रणे कृष्णः सज्जितैकरथः स्थितः॥ 2-68-8(13955)
ततः पुष्करपत्राक्षं तार्क्ष्यध्वजरथे स्थितम्।
दिवाकरमिवोद्यन्तं ददृशुः सर्वपार्थिवाः॥ 2-68-9(13956)
आरोपयन्तं ज्यां कृष्णं प्रतपन्तमिवौजसा।
स्थितं पुष्परथे दिव्ये पुष्पकेतुमिवापरम्॥ 2-68-10(13957)
दृष्ट्वा कृष्णं तथा यान्तं प्रतपन्तमिवौजसा।
यथार्हं केशवे वृत्तिमवशाः प्रतिपेदिरे॥ 2-68-11(13958)
तानुवाच महाबाहुर्महाऽसुरनिबर्हणः।
वृष्णिवीरस्तदा राजन्सान्त्वयन्परवीरहा॥ 2-68-12(13959)
श्रीभगवानुवाच॥ 2-68-13x(1495)
अपेत सबलाः सर्व आस्वस्ता मम शासनात्।
मा दृष्टो दूषयेत्पाप एष वः सर्वपार्थिपाः॥ 2-68-13(13960)
एष नः शत्रुरत्यन्तमेष वृष्णिविमर्दनः।
सात्वतां सात्वतीपुत्रो वैरं चरति शाश्वतम्'॥ 2-68-14(13961)
प्राग्ज्योतिषपुरं यातानस्माञ्ज्ञात्वा नृशंसकृत्।
अदहद्द्वारकामेष स्वस्त्रीयः सन्नराधिपाः॥ 2-68-15(13962)
क्रीडतो भोजराजस्य एव रैवतके गिरौ।
हत्वा बध्वा च तान्सार्वानुपायात्स्वपुरं पुरा॥ 2-68-16(13963)
अश्वमेधे हयं मेध्यमुत्सृष्टं रक्षिभिर्वृतम्।
पितुर्मे यज्ञविघ्नार्थमहरत्पापनिश्चयः॥ 2-68-17(13964)
सौवीरान्प्रतियातां च बभ्रोरेष तपस्विनः।
भार्यामभ्यहरन्मोहादकामां तामितो गताम्॥ 2-68-18(13965)
एष मायाप्रतिच्छन्नः कारूशार्थे तपस्विनीम्।
जहार भद्रां वैशालीं मातुलस्य नृशंसकृत्॥ 2-68-19(13966)
वृष्णिदारान्विलाप्यैव हत्वा च कुकुरान्धकान्।
पापाबुद्धिरुपातिष्ठत्स प्रविश्य ससम्भ्रमम्॥ 2-68-20(13967)
विशालराज्ञो दुहितां मम पित्रा वृतां सतीम्।
अनेन कृत्वा सन्धानं करूशेन जिगीषया॥ 2-68-21(13968)
जरासन्धं समाश्रित्य कृतवान्विप्रियाणि मे।
तानि सर्वाणि सङ्ख्यातुं न शक्नोमि नराधिपाः॥ 2-68-22(13969)
एवमेतदपर्यन्तमेष वृष्णिषु किल्बिषी।
अस्माकमयमारम्भांश्चकार परभानृजुः॥ 2-68-23(13970)
शतं क्षन्तव्यमस्माभिर्वधार्हाणां किलागसाम्।
बद्धोऽस्मि समयैर्घोरैर्मातुरस्यैव सङ्गरे॥ 2-68-24(13971)
तत्तथा शतमस्माकं क्षान्तं क्षयकरं मया।
द्वौ तु मे वधकालेऽस्मिन्न क्षन्तव्यौ कथञ्चन॥ 2-68-25(13972)
यज्ञविघ्नकरं हन्यां पाण्डवानां च दुर्हृदम्।
इति मे वर्तते भावस्तमतीयां कथं न्वहम्॥ 2-68-26(13973)
पितृष्वसुः कृते दुःखं सुमहन्मर्षयाम्यहम्।
दिष्ट्या हीदं सर्वराज्ञां सन्निधावद्य वर्तते॥ 2-68-27(13974)
पश्यन्ति हि भवन्तोऽद्य मय्यतीव व्यतिक्रमम्।
कृतानि तु परोक्षं मे यानि तानि निबोधत॥ 2-68-28(13975)
इमं त्वस्य न शक्ष्यामि क्षन्तुमद्य व्यतिक्रमम्।
अवलेपाद्वधार्हस्य समग्रे राजमण्डले॥ 2-68-29(13976)
रुक्मिण्यामस्य मूढस्य प्रार्थनाऽऽसीन्मुमूर्षतः।
न च तां प्राप्तवान्मूढः शूद्रो वेदश्रुतीमिव॥ 2-68-30(13977)
वैशम्पायन उवाच॥ 2-68-31x(1496)
एवमादि ततः सर्वे सहितास्ते नराधिपाः।
गर्हणं शिशुपालस्य वासुदेवेन विश्रुतः॥ 2-68-31(13978)
वासुदेववचः श्रुत्वा चेदिराजं व्यगर्हयन्।
रथोपस्थे धनुष्मन्तं शरान्सन्दधतं रुषा॥ 2-68-32(13979)
श्रुत्वाऽपि च विलोक्याशु दुद्रुवुः सर्वपार्थिवाः।
विहाय परमोद्विग्नाश्चेदिराजं चमूमुखे॥ 2-68-33(13980)
तस्य तद्वचनं श्रुत्वा शिशुपालः प्रतापवान्।
जहास स्वनवद्धासं वाक्यं चेदमुवाच ह॥ 2-68-34(13981)
मत्पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन्।
विशेषतः पार्थिवेषु व्रीडां न कुरुषे कथम्॥ 2-68-35(13982)
मन्यमानो हि कः सत्सु पुरुषः परिकीर्तयेत्।
अन्यपूर्वा स्त्रियं जातु त्वदन्यो मधूसूदन॥ 2-68-36(13983)
क्षमा वा यदि ते श्रद्धा मा वा कृष्ण मम क्षम।
क्रुद्धाद्वापि प्रसन्नाद्वा किं मे त्वत्तो भविष्यते॥ 2-68-37(13984)
`वैशम्पायन उवाच॥ 2-68-38x(1497)
स तांस्तु विद्रुतान्सर्वान्साश्वपत्तिरथद्विपान्।
कृष्णतेजोहतान्सर्वान्समीक्ष्य वसुधाधिपान्॥ 2-68-38(13985)
शिशुपालो रथेनैकः प्रत्युपायात्स केशवम्।
रुषा ताम्रेक्षणो राजञ्छलभः पावकं यथा॥ ॥ 2-68-39(13986)

इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि अष्टषष्टितमोऽध्यायः॥ 68॥

Mahabharata - Sabha Parva - Chapter Footnotes
2-68-31 विश्रुताः श्राविताः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.